भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं
यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥५॥

तत्र आदित्यः ह वै प्राणः अत्ता अग्निः । रयिरेव चन्द्रमाः । रयिरेव अन्नं सोम एव । तदेतद् एकम् अत्ता अग्निश्चान्नं च प्रजापतिः, एकं तु मिथुनम् ; गुणप्रधानकृतो भेदः । कथम् ? रयिर्वै अन्नमेव एतत् सर्वम् । किं तत् ? यत् मूर्तं च स्थूलं च अमूर्तं च सूक्ष्मं च । मूर्तामूर्ते अत्त्रन्नरूपे अपि रयिरेव । तस्मात् प्रविभक्तात् अमूर्तात् यदन्यन्मूर्तरूपं मूर्तिः, सा एव रयिः अन्नम्, अमूर्तेन अत्त्रा अद्यमानत्वात् ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS