भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

अथ परा यया तदक्षरमधिगम्यते-
यत्तदद्रेश्यमग्राह्यम् अगोत्रमवर्णम् अचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥६॥

अथ इदानीम् इयं परा विद्या उच्यते यया तत् वक्ष्यमाणविशेषणम् अक्षरम् अधिगम्यते प्राप्यते, अधि-पूर्वस्य गमेः प्रायशः प्राप्त्यर्थत्वात्; न च परप्राप्तेः अवगमार्थस्य च भेदोऽस्ति ; अविद्याया अपाय एव हि परप्राप्तिः न अर्थान्तरम् ॥

ननु ऋग्वेदादिबाह्या तर्हि सा कथं परा विद्या स्यात् मोक्षसाधनं च । ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः. . . ’ (मनु. १२ । ९५) इति हि स्मरन्ति । कुदृष्टित्वात् निष्फलत्वात् अनादेया स्यात् ; उपनिषदां च ऋग्वेदादिबाह्यत्वं स्यात् । ऋग्वेदादित्वे तु पृथक्करणम् अनर्थकम् अथ परा इति । न, वेद्यविषयविज्ञानस्य विवक्षितत्वात् । उपनिषद्वेद्याक्षरविषयं हि विज्ञानम् इह परा विद्या इति प्राधान्येन विवक्षितम् , न उपनिषच्छब्दराशिः । वेदशब्देन तु सर्वत्र शब्दराशिर्विवक्षितः । शब्दराश्यधिगमेऽपि यत्नान्तरमन्तरेण गुर्वभिगमनादिलक्षणं वैराग्यं च नाक्षराधिगमः सम्भवतीति पृथक्करणं ब्रह्मविद्यायाः ’अथ परा विद्या’ इति ॥५॥

यथा विधिविषये कर्त्राद्यनेककारकोपसंहारद्वारेण वाक्यार्थज्ञानकालादन्यत्र अनुष्ठेयः अर्थः अस्ति अग्निहोत्रादिलक्षणः, न तथा इह परविद्याविषये वाक्यार्थज्ञानसमकाले एव तु पर्यवसितो भवति, केवलशब्दप्रकाशितार्थज्ञानमात्रनिष्ठाव्यतिरिक्ताभावात् । तस्मादिह परां विद्यां सविशेषणेन अक्षरेण विशिनष्टि — यत्तदद्रेश्यम् इत्यादिना ॥

वक्ष्यमाणं बुद्धौ संहृत्य सिद्धवत्परामृशति — यत्तदिति । अद्रेश्यम् अदृश्यं सर्वेषां बुद्धीन्द्रियाणाम् अगम्यम् इत्येतत् । दृशेः बहिः प्रवृत्तस्य पञ्चेन्द्रियद्वारकत्वात् । अग्राह्यं कर्मेन्द्रियाविषयमित्येतत् । अगोत्रम् , गोत्रम् अन्वयो मूलम् इति अनर्थान्तरम् । अगोत्रम् अनन्वयम् इत्यर्थः । न हि तस्य मूलमस्ति येन अन्वितं स्यात् । वर्ण्यन्त इति वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्लत्वादयो वा । अविद्यमाना वर्णा यस्य तत् अवर्णम् अक्षरम् । अचक्षुःश्रोत्रं चक्षुश्च श्रोत्रं च नामरूपविषये करणे सर्वजन्तूनाम् , ते अविद्यमाने यस्य तत् अचक्षुःश्रोत्रम् । ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इति चेतनावत्त्वविशेषणात् प्राप्तं संसारिणामिव चक्षुःश्रोत्रादिभिः करणैः अर्थसाधकत्वम् ; तदिह अचक्षुःश्रोत्रमिति वार्यते, ‘पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिदर्शनात् । किञ्च, तत् अपाणिपादं कर्मेन्द्रियरहितम् इत्येतत् । यत एवम् अग्राह्यमग्राहकं च अतो नित्यम् अविनाशि । विभुं विविधं ब्रह्मादिस्थावरान्तप्राणिभेदैः भवतीति विभुम् । सर्वगतं व्यापकम् आकाशवत्सुसूक्ष्मम् । शब्दादिस्थूलत्वकारणरहितत्वात् । शब्दादयो हि आकाशवाय्वादीनाम् उत्तरोत्तरस्थूलत्वकारणानि; तदभावात् सुसूक्ष्मम् , किञ्च, तत् अव्ययम् उक्तधर्मत्वादेव न व्येति इति अव्ययम् । न हि अनङ्गस्य स्वाङ्गापचयलक्षणो व्ययः सम्भवति शरीरस्येव । नापि कोशापचयलक्षणो व्ययः सम्भवति राज्ञ इव । नापि गुणद्वारको व्ययः सम्भवति, अगुणत्वात् सर्वात्मकत्वाच्च । यत् एवंलक्षणं भूतयोनिं भूतानां कारणं पृथिवी इव स्थावरजङ्गमानां परिपश्यन्ति सर्वतः आत्मभूतं सर्वस्य अक्षरं पश्यन्ति धीराः धीमन्तो विवेकिनः । ईदृशम् अक्षरं यया विद्यया अधिगम्यते सा परा विद्येति समुदायार्थः ॥६॥

© 2023 KKP APP. All rights reserved | Design by SMDS