अथर्ववेदीया मुण्डकोपषद्
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम् ॥७॥
भूतयोनिः अक्षरम् इत्युक्तम् । तत्कथं भूतयोनित्वम् इत्युच्यते दृष्टान्तैः — यथा लोके प्रसिद्धः ऊर्णनाभिः लूताकीटः किञ्चित् कारणान्तरम् अनपेक्ष्य स्वयमेव सृजते स्वशरीराव्यतिरिक्तानेव तन्तून्बहिः प्रसारयति पुनस्तानेव गृह्णते च गृह्णाति स्वात्मभावमेव आपादयति ; यथा च पृथिव्याम् ओषधयः, व्रीह्यादिस्थावराणि इत्यर्थः, स्वात्म-अव्यतिरिक्ता एव प्रभवन्ति सम्भवन्ति ; यथा च सतः विद्यमानाज्जीवतः पुरुषात् केशलोमानि केशाश्च लोमानि च सम्भवन्ति विलक्षणानि । यथा एते दृष्टान्ताः, तथा विलक्षणं सलक्षणं च निमित्तान्तर- अनपेक्षात् यथोक्तलक्षणात् अक्षरात् सम्भवति समुत्पद्यते इह संसारमण्डले विश्वं समस्तं जगत् । अनेकदृष्टान्तोपादानं तु सुखावबोधनार्थम् ॥७॥
© 2023 KKP APP. All rights reserved | Design by SMDS