अथर्ववेदीया मुण्डकोपषद्
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥५॥
एतेषु अग्निजिह्वाभेदेषु यः अग्निहोत्री चरते कर्म आचरति अग्निहोत्रादिकं भ्राजमानेषु दीप्यमानेषु । यथाकालं च यस्य कर्मणो यः कालः तं कालमनतिक्रम्य यथाकालं यजमानम् आददायन् आददानाः आहुतयः तं नयन्ति प्रापयन्ति । एताः आहुतयो याः इमाः अनेन निर्वर्तिताः सूर्यस्य रश्मयः भूत्वा, रश्मिद्वारैः इत्यर्थः । यत्र यस्मिन्स्वर्गे देवानां पतिः इन्द्रः एकः सर्वानुपरि अधि वसतीति अधिवासः ॥५॥