भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति
नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः
परात्परं पुरुषमुपैति दिव्यम् ॥८॥

किञ्च, यथा नद्यः गङ्गाद्याः स्यन्दमानाः गच्छन्त्यः समुद्रे समुद्रं प्राप्य अस्तम् अदर्शनम् अविशेषात्मभावं गच्छन्ति प्राप्नुवन्ति, नाम च रूपं च नामरूपे विहाय हित्वा, तथा अविद्याकृतनामरूपात् विमुक्तः सन् विद्वान् परादक्षरात् पूर्वोक्तात् परं दिव्यं पुरुषं यथोक्तलक्षणम् उपैति उपगच्छति ॥८॥

© 2023 KKP APP. All rights reserved | Design by SMDS