भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

यस्याग्निहोत्रमदर्शमपौर्णमासम् अचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ।
अहुतमवैश्वदेवमविधिना हुतम् आसप्तमांस्तस्य लोकान्हिनस्ति ॥३॥

एष सम्यगाहुतिप्रक्षेपादिलक्षणः कर्ममार्गो लोकप्राप्तये पन्थाः । तस्य च सम्यक्करणं दुष्करम्; विपत्तयस्तु अनेका भवन्ति कथम् ? यस्य अग्निहोत्रिणः अग्निहोत्रम् अदर्शं दर्शाख्येन कर्मणा वर्जितम् । अग्निहोत्रिभिः अवश्यकर्तव्यत्वाद्दर्शस्य । अग्निहोत्रिसम्बन्धि अग्निहोत्रविशेषणमिव भवति । तदक्रियमाणम् इत्येतत् । तथा अपौर्णमासम् इत्यादिष्वपि अग्निहोत्रविशेषणत्वं द्रष्टव्यम् । अग्निहोत्राङ्गत्वस्य अविशिष्टत्वात् । अपौर्णमासं पौर्णमासकर्मवर्जितम् । अचातुर्मास्यं चातुर्मास्यकर्मवर्जितम् । अनाग्रयणम् आग्रयणं शरदादिषु कर्तव्यम्, तच्च न क्रियते यस्य तत्तथा । अतिथिवर्जितं च अतिथिपूजनं च अहन्यहनि अक्रियमाणं यस्य । स्वयं सम्यगग्निहोत्रकाले अहुतम् । अदर्शादिवत् अवैश्वदेवं वैश्वदेवकर्मवर्जितम् । हूयमानमपि अविधिना हुतम् अयथाहुतमित्येतत् । एवं दुःसम्पादितम् असम्पादितम् अग्निहोत्राद्युपलक्षितं कर्म किं करोति इत्युच्यते — आसप्तमान् सप्तमसहितान् तस्य कर्तुः लोकान् हिनस्ति हिनस्तीव आयासमात्रफलत्वात् । सम्यक् क्रियमाणेषु हि कर्मसु कर्मपरिणामानुरूप्येण भूरादयः सत्यान्ताः सप्त लोकाः फलं प्राप्तव्यम् । ते लोकाः एवंभूतेन अग्निहोत्रादिकर्मणा तु अप्राप्यत्वात् हिंस्यन्त इव, आयासमात्रं तु अव्यभिचारी इत्यतो हिनस्तीत्युच्यते । पिण्डदानाद्यनुग्रहेण वा सम्बध्यमानाः पितृपितामहप्रपितामहाः पुत्रपौत्रप्रपौत्राः स्वात्मोपकाराः सप्त लोका उक्तप्रकारेण अग्निहोत्रादिना न भवन्तीति हिंस्यन्त इत्युच्यते ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS