अथर्ववेदीया मुण्डकोपषद्
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥९॥
यम् आत्मानम् एवं पश्यति, एषः अणुः सूक्ष्मः आत्मा चेतसा विशुद्धज्ञानेन केवलेन वेदितव्यः । क्वासौ ? यस्मिन् शरीरे प्राणः वायुः पञ्चधा प्राणापानादिभेदेन संविवेश सम्यक् प्रविष्टः, तस्मिन्नेव शरीरे हृदये चेतसा ज्ञेयः इत्यर्थः । कीदृशेन चेतसा वेदितव्यः इति आह — प्राणैः सहेन्द्रियैः चित्तं सर्वमन्तःकरणं प्रजानाम् ओतं व्याप्तं येन क्षीरमिव स्नेहेन, काष्ठमिव च अग्निना । सर्वं हि प्रजानाम् अन्तःकरणं चेतनावत् प्रसिद्धं लोके । यस्मिंश्च चित्ते क्लेशादिमलवियुक्ते शुद्धे विभवति, एषः उक्त आत्मा विशेषेण स्वेन आत्मना विभवति आत्मानं प्रकाशयति इत्यर्थः ॥९॥
© 2023 KKP APP. All rights reserved | Design by SMDS