भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः
सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या
वाचो विमुञ्चथामृतस्यैष सेतुः ॥५॥

अक्षरस्यैव दुर्लक्ष्यत्वात् पुनः पुनर्वचनं सुलक्षणार्थम् । यस्मिन् अक्षरे पुरुषे द्यौः पृथिवी च अन्तरिक्षं च ओतं समर्पितं मनश्च सह प्राणैः करणैः अन्यैः सर्वैः, तमेव सर्वाश्रयम् एकम् अद्वितीयं जानथ जानीत हे शिष्याः । आत्मानं प्रत्यक्स्वरूपं युष्माकं सर्वप्राणिनां च । ज्ञात्वा च अन्याः वाचः अपरविद्यारूपाः विमुञ्चथ विमुञ्चत परित्यजत । तत्प्रकाश्यं च सर्वं कर्म ससाधनम् । यतः अमृतस्य एष सेतुः, एतदात्मज्ञानममृतस्यामृतत्वस्य मोक्षस्य प्राप्तये सेतुरिव सेतुः, संसारमहोदधेः उत्तरणहेतुत्वात् ; तथा च श्रुत्यन्तरम् — ‘तमेव विदित्वा अति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS