भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः
कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च
कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥१०॥

यः एवम् उक्तलक्षणं सर्वात्मानम् आत्मत्वेन प्रतिपन्नः तस्य सर्वात्मत्वादेव सर्वावाप्तिलक्षणं फलमाह — यं यं लोकं पित्रादिलक्षणं मनसा संविभाति सङ्कल्पयति मह्यम् अन्यस्मै वा भवेदिति, विशुद्धसत्त्वः क्षीणक्लेशः आत्मवित् निर्मलान्तःकरणः कामयते यांश्च कामान् प्रार्थयते भोगान् , तं तं लोकं जयते प्राप्नोति तांश्च कामान् सङ्कल्पितान् भोगान् । तस्माद्विदुषः सत्यसङ्कल्पत्वात् आत्मज्ञम् आत्मज्ञानेन विशुद्धान्तःकरणं हि अर्चयेत् पूजयेत् पादप्रक्षालनशुश्रूषा-नमस्कारादिभिः भूतिकामः विभूतिमिच्छुः । ततः पूजार्ह एवासौ ॥

इति तृतीयमुण्डके प्रथमखण्डः

© 2023 KKP APP. All rights reserved | Design by SMDS