भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ ९ ॥

उक्तमेवार्थम् उपसञ्जिहीर्षुः र्मन्त्रो वक्ष्यमाणार्थम् आह — यः उक्तलक्षणः अक्षराख्यः सर्वज्ञः सामान्येन सर्वं जानातीति सर्वज्ञः । विशेषेण सर्वं वेत्तीति सर्ववित् । यस्य ज्ञानमयं ज्ञानविकारमेव सार्वज्ञ्यलक्षणं तपः अनायासलक्षणम् , तस्मात् यथोक्तात् सर्वज्ञात् एतत् उक्तं कार्यलक्षणं ब्रह्म हिरण्यगर्भाख्यं जायते । किञ्च, नाम ’असौ देवदत्तः यज्ञदत्तः’ इत्यादिलक्षणम् , रूपम् इदं शुक्लं नीलमित्यादि, अन्नं च व्रीहियवादिलक्षणम् , जायते पूर्वमन्त्रोक्तक्रमेण इति अविरोधो द्रष्टव्यः ॥९॥

इति प्रथमे मुण्डके प्रथमः खण्डः

© 2023 KKP APP. All rights reserved | Design by SMDS