अथर्ववेदीया मुण्डकोपषद्
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥६॥
कथं सूर्यस्य रश्मिभिः यजमानं वहन्तीति उच्यते — ’एहि एहि’ इति आह्वयन्त्यः तं यजमानम् आहुतयः सुवर्चसः दीप्तिमत्यः ; किञ्च, प्रियाम् इष्टां वाचं स्तुत्यादिलक्षणाम् अभिवदन्त्यः उच्चारयन्त्यः अर्चयन्त्यः पूजयन्त्यश्च एषः वः युष्माकं पुण्यः सुकृतः ब्रह्मलोकः फलरूपः, इत्थं प्रियां वाचम् अभिवदन्त्यो वहन्तीत्यर्थः । ब्रह्मलोकः स्वर्गः प्रकरणात् ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS