अथर्ववेदीया मुण्डकोपषद्
यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥२॥
किञ्च, यत् अर्चिमत् दीप्तिमत् ; तद्दीप्त्या हि आदित्यादि दीप्यत इति दीप्तिमद्ब्रह्म । किञ्च, यत् अणुभ्यः श्यामाकादिभ्योऽपि अणु च सूक्ष्मम् । च- शब्दात् स्थूलेभ्योऽपि अतिशयेन स्थूलं पृथिव्यादिभ्यः । यस्मिन् लोकाः भूरादयः निहिताः स्थिताः, ये च लोकिनः लोकनिवासिनः मनुष्यादयः ; चैतन्याश्रया हि सर्वे प्रसिद्धाः ; तदेतत् सर्वाश्रयं अक्षरम् ब्रह्म स प्राणः तदु वाङ्मनः वाक्च मनश्च सर्वाणि च करणानि तदु अन्तश्चैतन्यम् ; चैतन्याश्रयो हि प्राणेन्द्रियादिसर्वसङ्घातः, ‘प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १०) इति श्रुत्यन्तरात् । यत्प्राणादीनाम् अन्तश्चैतन्यम् अक्षरं तदेतत् सत्यम् अवितथम् , अतः अमृतम् अविनाशि तत् वेद्धव्यं मनसा ताडयितव्यम् । तस्मिन्मनसः समाधानं कर्तव्यम् इत्यर्थः । यस्मादेवं हे सोम्य, विद्धि अक्षरे चेतः समाधत्स्व ॥२॥
© 2023 KKP APP. All rights reserved | Design by SMDS