भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाज्यभागावन्तरेण आहुतीः प्रतिपादयेत् ॥२॥

तत्राग्निहोत्रमेव तावत्प्रथमं प्रदर्शनार्थम् उच्यते, सर्वकर्मणां प्राथम्यात् । तत्कथम् ? यदा एव इन्धनैः अभ्याहितैः सम्यगिद्धे समिद्धे दीप्ते हव्यवाहने लेलायते चलति अर्चिः ; तदा तस्मिन्काले लेलायमाने चलत्यर्चिषि आज्यभागौ आज्यभागयोः अन्तरेण मध्ये आवापस्थाने आहुतीः प्रतिपादयेत् प्रक्षिपेत् देवतामुद्दिश्य । अनेकाहःप्रयोगापेक्षया आहुतीः इति बहुवचनम् । ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS