अथर्ववेदीया मुण्डकोपषद्
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः
शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले
परामृताः परिमुच्यन्ति सर्वे ॥६॥
किञ्च, वेदान्तजनितं विज्ञानं वेदान्तविज्ञानं तस्यार्थः पर आत्मा विज्ञेयः, सोऽर्थः सुनिश्चितः येषां ते वेदान्तविज्ञानसुनिश्चितार्थाः । ते च संन्यासयोगात् सर्वकर्मपरित्यागलक्षणयोगात् केवलब्रह्मनिष्ठास्वरूपात् योगात् यतयः यतनशीलाः शुद्धसत्त्वाः शुद्धं सत्त्वं येषां संन्यासयोगात् , ते शुद्धसत्त्वाः । ते ब्रह्मलोकेषु ; संसारिणां ये मरणकालाः ते अपरान्तकालाः ; तानपेक्ष्य मुमुक्षूणां संसारावसाने देहपरित्यागकालः परान्तकालः तस्मिन् परान्तकाले साधकानां बहुत्वात्, ब्रह्मैव लोको ब्रह्मलोकः एकोऽपि अनेकवद्दृश्यते प्राप्यते च । अतो बहुवचनं ब्रह्मलोकेष्विति, ब्रह्मणीत्यर्थः । परामृताः परम् अमृतम् अमरणधर्मकं ब्रह्म आत्मभूतं येषां ते परामृता जीवन्त एव ब्रह्मभूताः, परामृताः सन्तः परिमुच्यन्ति परि समन्तात् प्रदीपनिर्वाणवत् भिन्नघटाकाशवच्च निवृत्तिमुपयान्ति परिमुच्यन्ति परि समन्तात् मुच्यन्ते सर्वे, न देशान्तरं गन्तव्यम् अपेक्षन्ते । ‘शकुनीनामिवाकाशे जले वारिचरस्य वा । पदं यथा न दृश्येत तथा ज्ञानवतां गतिः’ (मो. ध. १८१ । ९) ‘अनध्वगा अध्वसु पारयिष्णवः’ ( ? ) इति श्रुतिस्मृतिभ्याम् ; देशपरिच्छिन्ना हि गतिः संसारविषया एव, परिच्छिन्नसाधनसाध्यत्वात् । ब्रह्म तु समस्तत्वात् न देशपरिच्छेदेन गन्तव्यम् । यदि हि देशपरिच्छिन्नं ब्रह्म स्यात् , मूर्तद्रव्यवत् आद्यन्तवत् अन्याश्रितं सावयवम् अनित्यं कृतकं च स्यात् । न तु एवंविधं ब्रह्म भवितुमर्हति । अतः तत्प्राप्तिश्च नैव देशपरिच्छिन्ना भवितुं युक्ता ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS