अथर्ववेदीया मुण्डकोपषद्
अथ श्रीमच्छङ्करभगवतः
कृतौ मुण्डकोपनिषद्भाष्यम्
ओं भद्रं कर्णेभिः श्रुणुयामदेवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाम्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओं शान्तिः शान्तिः शान्तिः
ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
उपोद्घातः
‘ब्रह्मा देवानाम्’ इत्याद्या आथर्वणोपनिषत् । अस्याश्च विद्यासम्प्रदायकर्तृपारम्पर्यलक्षणं सम्बन्धम् आदावेव आह स्वयमेव स्तुत्यर्थम् — एवं हि महद्भिः परमपुरुषार्थसाधनत्वेन गुरुणा आयासेन लब्धा विद्या इति । श्रोतृबुद्धिप्ररोचनाय विद्यां महीकरोति, स्तुत्या प्ररोचितायां हि विद्यायां सादराः प्रवर्तेरन् इति । प्रयोजनेन तु विद्यायाः साध्यसाधनलक्षणं सम्बन्धम् उत्तरत्र वक्ष्यति ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) इत्यादिना । अत्र च अपरशब्दवाच्यायाः ऋग्वेदादिलक्षणायाः विधिप्रतिषेधमात्रपरायाः विद्यायाः संसारकारण-अविद्यादिदोषनिवर्तकत्वं नास्तीति स्वयमेव उक्त्वा परापरेति विद्याभेदकरणपूर्वकम् ‘अविद्यायामन्तरे वर्तमानाः’ (मु. उ. १ । २ । ८) इत्यादिना, तथा परप्राप्तिसाधनं सर्वसाधनसाध्यविषयवैराग्यपूर्वकं गुरुप्रसादलभ्यां ब्रह्मविद्याम् आह ‘परीक्ष्य लोकान्’ (मु. उ. १ । २ । १२) इत्यादिना । प्रयोजनं च असकृद्ब्रवीति ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति ‘परामृताः परिमुच्यन्ति सर्वे’ (मु. उ. ३ । २ । ६) इति च । ज्ञानमात्रे यद्यपि सर्वाश्रमिणाम् अधिकारः, तथापि संन्यासनिष्ठा एव ब्रह्मविद्या मोक्षसाधनं न कर्मसहिता इति ‘भैक्षचर्यां चरन्तः’ (मु. उ. १ । २ । ११) ‘संन्यासयोगात्’ (मु. उ. ३ । २ । ६) इति च ब्रुवन् दर्शयति । विद्याकर्मविरोधाच्च । न हि ब्रह्मात्मैकत्वदर्शनेन सह कर्म स्वप्नेऽपि सम्पादयितुं शक्यम् ; विद्यायाः कालविशेषाभावात् अनियतनिमित्तत्वाच्च कालसङ्कोचानुपपत्तेः । यत्तु गृहस्थेषु ब्रह्मविद्यासम्प्रदायकर्तृत्वादि लिङ्गं न तत्स्थितं न्यायं बाधितुमुत्सहते ; न हि विधिशतेनापि तमःप्रकाशयोः एकत्र सद्भावः शक्यते कर्तुम् , किमुत लिङ्गैः केवलैरिति । एवम् उक्तसम्बन्धप्रयोजनाया उपनिषदः अल्पग्रन्थं विवरणम् आरभ्यते । ये इमां ब्रह्मविद्याम् उपयन्ति आत्मभावेन श्रद्धाभक्तिपुरःसराः सन्तः, तेषां गर्भजन्मजरारोगाद्यनर्थपूगं निशातयति, परं वा ब्रह्म गमयति अविद्यादिसंसारकारणं वा अत्यन्तम् अवसादयति विनाशयतीति उपनिषत् ; उपनिपूर्वस्य सदेः एवम् अर्थस्मरणात् ॥
© 2023 KKP APP. All rights reserved | Design by SMDS