भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥

तस्मै सः विद्वान् गुरुः ब्रह्मवित् , उपसन्नाय उपगताय । सम्यक् यथाशास्त्रमित्येतत् । प्रशान्तचित्ताय उपरतदर्पादिदोषाय । शमान्विताय बाह्येन्द्रियोपरमेण च युक्ताय, सर्वतो विरक्ताय इत्येतत् । येन विज्ञानेन यया विद्यया च परया अक्षरम् अद्रेश्यादिविशेषणं तदेव अक्षरं पुरुषशब्दवाच्यं पूर्णत्वात् पुरि शयनाच्च, सत्यं तदेव परमार्थस्वाभाव्यात् अव्ययम् , अक्षरं च अक्षरणात् अक्षतत्वात् अक्षयत्वाच्च, वेद विजानाति तां ब्रह्मविद्यां तत्त्वतः यथावत् प्रोवाच प्रब्रूयादित्यर्थः । आचार्यस्यापि अयमेव नियमो यन्न्यायप्राप्तसच्छिष्यनिस्तारणम् अविद्यामहोदधेः ॥१३॥

इति प्रथमे मुण्डके द्वितीयः खण्डः
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ मुण्डकोपनिषद्भाष्ये प्रथमं मुण्डकं समाप्तम्

© 2023 KKP APP. All rights reserved | Design by SMDS