भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति
ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥४॥

तस्मै शौनकाय सः अङ्गिराः ह किल उवाच उक्तवान् । किमिति, उच्यते — द्वे विद्ये वेदितव्ये ज्ञातव्ये इति । एवं ह स्म किल यत् ब्रह्मविदः वेदार्थाभिज्ञाः परमार्थदर्शिनः वदन्ति । के ते इत्याह — परा च परमात्मविद्या, अपरा च धर्माधर्मसाधन-तत्फलविषया । ननु कस्मिन्विदिते सर्वविद्भवतीति शौनकेन पृष्टम्; तस्मिन्वक्तव्ये अपृष्टमाह अङ्गिराः — द्वे विद्ये इत्यादि । नैष दोषः, क्रमापेक्षत्वात् प्रतिवचनस्य । अपरा हि विद्या अविद्या ; सा निराकर्तव्या तद्विषये हि अविदिते न किञ्चित् तत्त्वतो विदितं स्यादिति ; ‘निराकृत्य हि पूर्वपक्षं पश्चात्सिद्धान्तो वक्तव्यो भवति’ इति न्यायात् ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS