भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

पञ्चाग्निद्वारेण च याः संसरन्ति प्रजाः, ता अपि तस्मादेव पुरुषात्प्रजायन्त इत्युच्यते —

तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य
ओषधयः पृथिव्याम् । पुमान्रेतः सिञ्चति
योषितायां बह्वीः प्रजाः पुरुषात्सम्प्रसूताः ॥५॥

तस्मात् परस्मात्पुरुषात् प्रजावस्थानविशेषरूपः अग्निः । स विशेष्यते — समिधो यस्य सूर्यः, समिध इव समिधः ; सूर्येण हि द्युलोकः समिध्यते । ततो हि द्युलोकाग्नेः निष्पन्नात् सोमात् पर्जन्यः द्वितीयोऽग्निः सम्भवति । तस्माच्च पर्जन्यात् ओषधयः पृथिव्यां सम्भवन्ति । ओषधिभ्यः पुरुषाग्नौ हुताभ्य उपादानभूताभ्यः पुमानग्निः रेतः सिञ्चति योषितायां योषिति योषाग्नौ स्त्रियामिति । एवं क्रमेण बह्वीः बह्व्यः प्रजाः ब्राह्मणाद्याः पुरुषात् परस्मात् सम्प्रसूताः समुत्पन्नाः ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS