भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

तस्माच्च देवा बहुधा सम्प्रसूताः साध्या
मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ
तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥७॥

तस्माच्च पुरुषात् कर्माङ्गभूता देवाः बहुधा वस्वादिगणभेदेन सम्प्रसूताः सम्यक् प्रसूताः — साध्याः देवविशेषाः, मनुष्याः कर्माधिकृताः, पशवः ग्राम्यारण्याः, वयांसि पक्षिणः ; जीवनं च मनुष्यादीनां प्राणापानौ, व्रीहियवौ हविरर्थौ ; तपश्च कर्माङ्गं पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम् ; श्रद्धा यत्पूर्वकः सर्वपुरुषार्थसाधनप्रयोगः चित्तप्रसादः आस्तिक्यबुद्धिः ; तथा सत्यम् अनृतवर्जनं यथाभूतार्थवचनं च अपीडाकरम् ; ब्रह्मचर्यं मैथुन असमाचारः ; विधिश्च इतिकर्तव्यता ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS