भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च
सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च
लोकाः सोमो यत्र पवते यत्र सूर्यः ॥६॥

किञ्च, कर्मसाधनानि फलानि च तस्मादेव इत्याह— कथम् ? तस्मात् पुरुषात् ऋचः नियताक्षरपादावसानाः गायत्र्यादिच्छन्दोविशिष्टा मन्त्राः ; साम पाञ्चभक्तिकं साप्तभक्तिकं च स्तोभादिगीतिविशिष्टम् ; यजूंषि अनियताक्षरपादावसानानि वाक्यरूपाणि ; एवं त्रिविधा मन्त्राः । दीक्षाः मौञ्ज्यादिलक्षणाः कर्तृनियमविशेषाः । यज्ञाश्च सर्वे अग्निहोत्रादयः । क्रतवः सयूपाः । दक्षिणाश्च एकगवाद्या अपरिमितसर्वस्वान्ताः । संवत्सरश्च कालः कर्माङ्गभूतः । यजमानश्च कर्ता । लोकाः तस्य कर्मफलभूताः ; ते विशेष्यन्ते — सोमः यत्र येषु लोकेषु पवते पुनाति लोकान् यत्र च येषु सूर्यस्तपति । ते च दक्षिणायन-उत्तरायणमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलभूताः ॥६॥

© 2023 KKP APP. All rights reserved | Design by SMDS