भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥

यद्ब्रह्मण उत्पद्यमानं विश्वं तदनेन क्रमेण उत्पद्यते, न युगपत् बदरमुष्टिप्रक्षेपवदिति क्रमनियमविवक्षार्थोऽयं मन्त्रः आरभ्यते — तपसा ज्ञानेन उत्पत्तिविधिज्ञतया भूतयोन्यक्षरं ब्रह्म चीयते उपचीयते उत्पादयिष्यत् इदं जगत् अङ्कुरमिव बीजम् उच्छूनतां गच्छति पुत्रमिव पिता हर्षेण । एवं सर्वज्ञतया सृष्टिस्थितिसंहारशक्तिविज्ञानवत्तया उपचितात् ततः ब्रह्मणः अन्नम् अद्यते भुज्यत इत्यन्नम् अव्याकृतं साधारणं कारणं संसारिणां व्याचिकीर्षितावस्थारूपेण अभिजायते उत्पद्यते । ततश्च अव्याकृतात् व्याचिकीर्षितावस्थात् अन्नात् प्राणः हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठितो जगत्साधारणः अविद्याकामकर्मभूतसमुदायबीजाङ्कुरो जगदात्मा, अभिजायते इत्यनुषङ्गः । तस्माच्च प्राणात् मनः मनआख्यं सङ्कल्पविकल्पसंशयनिर्णयाद्यात्मकम् अभिजायते । ततोऽपि सङ्कल्पाद्यात्मकात् मनसः सत्यं सत्याख्यम् आकाशादिभूतपञ्चकम् अभिजायते । तस्मात् सत्याख्यात् भूतपञ्चकात् अण्डक्रमेण सप्त लोकाः भूरादयः । तेषु मनुष्यादिप्राणिवर्णाश्रमक्रमेण कर्माणि । कर्मसु च निमित्तभूतेषु अमृतं कर्मजं फलम् । यावत्कर्माणि कल्पकोटिशतैरपि न विनश्यन्ति, तावत्फलं न विनश्यतीति अमृतम् ॥८॥

© 2023 KKP APP. All rights reserved | Design by SMDS