अथर्ववेदीया मुण्डकोपषद्
अथ द्वितीये मुण्डके प्रथमः खण्डः
अपरविद्यायाः सर्वं कार्यमुक्तम् । स च संसारो यत्सारो यस्मान्मूलादक्षरात् सम्भवति यस्मिंश्च प्रलीयते, तदक्षरं पुरुषाख्यं सत्यम् । यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति, तत्परस्या ब्रह्मविद्याया विषयः । स वक्तव्यः इति उत्तरो ग्रन्थः आरभ्यते —
तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः
सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधाः
सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥१॥
यदपरविद्याविषयं कर्मफललक्षणम्, सत्यं तत् आपेक्षिकम् । इदं तु परविद्याविषयम् , परमार्थसल्लक्षणत्वात् । तदेतत् सत्यं यथाभूतं विद्याविषयम्; अविद्याविषयत्वाच्च अनृतम् इतरत् । अत्यन्तपरोक्षत्वात् कथं नाम प्रत्यक्षवत्सत्यम् अक्षरं प्रतिपद्येरन् इति दृष्टान्तमाह — यथा सुदीप्तात् सुष्ठु दीप्तात् इद्धात् पावकात् अग्नेः विस्फुलिङ्गाः अग्न्यवयवाः सहस्रशः अनेकशः प्रभवन्ते निर्गच्छन्ति सरूपाः अग्निसलक्षणा एव, तथा उक्तलक्षणात् अक्षरात् विविधाः नानादेहोपाधिभेदम् अनुविधीयमानत्वात् विविधाः हे सोम्य, भावाः जीवाः आकाशादिवत् घटादिपरिच्छिन्नाः सुषिरभेदाः घटाद्युपाधिप्रभेदम् अनु भवन्ति ; एवं नानानामरूपकृतदेहोपाधिप्रभवम् अनु प्रजायन्ते, तत्र चैव तस्मिन्नेव च अक्षरे अपियन्ति देहोपाधिविलयम् अनु विलीयन्ते घटादिविलयमनु इव सुषिरभेदाः । यथाऽऽकाशस्य सुषिरभेदोत्पत्तिप्रलयनिमित्तत्वं घटाद्युपाधिकृतमेव, तद्वदक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलयनिमित्तत्वम् ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS