भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

अथ प्रथमे मुण्डके द्वितीयः खण्डः

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन्
तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं
सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥१॥

साङ्गा वेदा अपरा विद्योक्ता ‘ऋग्वेदो यजुर्वेदः’ (मु. उ. १ । १ । ५) इत्यादिना । ‘यत्तदद्रेश्यम्’ (मु. उ. १ । १ । ६) इत्यादिना ‘नामरूपमन्नं च जायते’ (मु. उ. १ । १ । ९) इत्यन्तेन ग्रन्थेन उक्तलक्षणम् अक्षरं यया विद्यया अधिगम्यत इति सा परा विद्या सविशेषणा उक्ता । अतःपरम् अनयोः विद्ययोः विषयौ विवेक्तव्यौ संसारमोक्षौ इति उत्तरो ग्रन्थ आरभ्यते । तत्र अपरविद्याविषयः कर्त्रादिसाधनक्रियाफलभेदरूपः संसारः अनादिरनन्तो दुःखस्वरूपत्वात् घातव्यः प्रत्येकं शरीरिभिः सामस्त्येन नदीस्रोतोवत् अविच्छेदरूपसम्बन्धः तदुपशमलक्षणो मोक्षः परविद्याविषयः अनादी अनन्तः अजरः अमरः अमृतः अभयः शुद्धः प्रसन्नः स्वात्मप्रतिष्ठालक्षणः परमानन्दः अद्वयः इति । पूर्वं तावत् अपरविद्याया विषयप्रदर्शनार्थम् आरम्भः । तद्दर्शने हि तन्निर्वेदोपपत्तिः । तथा च वक्ष्यति — ‘परीक्ष्य लोकान्कर्मचितान्’ (मु. उ. १ । २ । १२) इत्यादिना । न ह्यप्रदर्शिते परीक्षोपपद्यत इति तत्प्रदर्शयन्नाह — तदेतत् सत्यम् अवितथम् । किं तत् ? मन्त्रेषु ऋग्वेदाद्याख्येषु कर्माणि अग्निहोत्रादीनि मन्त्रैरेव प्रकाशितानि कवयः मेधाविनो वसिष्ठादयः यानि अपश्यन् दृष्टवन्तः । यत्तदेतत्सत्यम् एकान्तपुरुषार्थसाधनत्वात्, तानि च वेदविहितानि ऋषिदृष्टानि कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्र-आध्वर्यव-औद्गात्रप्रकारायाम् अधिकरणभूतायां बहुधा बहुप्रकारं सन्ततानि सम्प्रवृत्तानि कर्मिभिः क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि ; अतो यूयं तानि आचरथ निर्वर्तयत नियतं नित्यं सत्यकामा यथाभूतकर्मफलकामाः सन्तः । एषः वः युष्माकं पन्थाः मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणः लोके फलनिमित्तं लोक्यते दृश्यते भुज्यत इति कर्मफलं लोकः उच्यते । तदर्थं तत्प्राप्तये एष मार्ग इत्यर्थः । यान्येतानि अग्निहोत्रादीनि त्रय्यां विहितानि कर्माणि, तान्येष पन्था अवश्यफलप्राप्तिसाधनम् इत्यर्थः ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS