भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।
कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥३॥

शौनकः शुनकस्यापत्यं महाशालः महागृहस्थः अङ्गिरसं भारद्वाजशिष्यम् आचार्यं विधिवत् यथाशास्त्रमित्येतत् ; उपसन्नः उपगतः सन् पप्रच्छ पृष्टवान् । शौनक-अङ्गिरसोः सम्बन्धादर्वाक् विधिवद्विशेषणाभावात् उपसदनविधेः पूर्वेषाम् अनियम इति गम्यते । मर्यादाकरणार्थं विशेषणम् । मध्यदीपिकान्यायार्थं वा विशेषणम्, अस्मदादिष्वपि उपसदनविधेः इष्टत्वात् । किमित्याह — कस्मिन्नु भगवो विज्ञाते, नु इति वितर्के, भगवः हे भगवन् , सर्वं यदिदं विज्ञेयं विज्ञातं विशेषेण ज्ञातम् अवगतं भवतीति ‘एकस्मिन्विज्ञाते सर्वविद्भवति’ इति शिष्टप्रवादं श्रुतवान् शौनकः तद्विशेषं विज्ञातुकामः सन् कस्मिन्निति वितर्कयन् पप्रच्छ । अथवा, लोकसामान्यदृष्ट्या ज्ञात्वा एव पप्रच्छ । सन्ति हि लोके सुवर्णादिशकलभेदाः सुवर्णत्वादि एकत्वविज्ञानेन विज्ञायमाना लौकिकैः ; तथा किं नु अस्ति सर्वस्य जगद्भेदस्य एकं कारणम् यत्र एकस्मिन्विज्ञाते सर्वं विज्ञातं भवतीति । ननु अविदिते हि कस्मिन्निति प्रश्नोऽनुपपन्नः ; किमस्ति तत् ? इति तदा प्रश्नो युक्तः ; सिद्धे हि अस्तित्वे कस्मिन्निति स्यात् , यथा कस्मिन्निधेयम् इति । न; अक्षरबाहुल्यात् आयासभीरुत्वात् प्रश्नः सम्भवत्येव — किं नु अस्ति तत् यस्मिन्नेकस्मिन्विज्ञाते सर्ववित्स्यादिति ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS