भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति
नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति
पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥९॥

ननु श्रेयसि अनेके विघ्नाः प्रसिद्धाः ; अतः क्लेशानाम् अन्यतमेन, अन्येन वा देवादिना च विघ्नितो ब्रह्मविदपि अन्यां गतिं मृतो गच्छति न ब्रह्मैव ; न, विद्यया एव सर्वप्रतिबन्धस्य अपनीतत्वात् । अविद्याप्रतिबन्धमात्रो हि मोक्षः न अन्यप्रतिबन्धः, नित्यत्वादात्मभूतत्वाच्च । तस्मात् सः यः कश्चित् ह वै लोके तत् परमं ब्रह्म वेद साक्षात् अहमेवास्मि इति जानाति, स न अन्यां गतिं गच्छति । देवैरपि तस्य ब्रह्मप्राप्तिं प्रति विघ्नो न शक्यते कर्तुम् ; आत्मा हि एषां स भवति । तस्माद्ब्रह्म विद्वान् ब्रह्मैव भवति । किञ्च, न अस्य विदुषः अब्रह्मवित् कुले भवति ; किञ्च, तरति शोकम् अनेक-इष्टवैकल्यनिमित्तं मानसं सन्तापं जीवन्नेव अतिक्रान्तो भवति । तरति पाप्मानं धर्माधर्माख्यं गुहाग्रन्थिभ्यः हृदय-अविद्याग्रन्थिभ्यः विमुक्तः सन् अमृतो भवतीति उक्तमेव ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) इत्यादि ॥९॥

© 2023 KKP APP. All rights reserved | Design by SMDS