भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

अथ द्वितीयः खण्डः

स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं ये ह्यकामाः ते शुक्रमेतदतिवर्तन्ति धीराः ॥१॥

यस्मात् सः वेद जानाति एतत् यथोक्तलक्षणं ब्रह्म परमं प्रकृष्टं धाम सर्वकामानाम् आश्रयम् आस्पदम् , यत्र यस्मिन्ब्रह्मणि धाम्नि विश्वं समस्तं जगत् निहितम् अर्पितम् , यच्च स्वेन ज्योतिषा भाति शुभ्रं शुद्धम् , तमपि एवंविधमात्मज्ञं पुरुषं ये हि अकामाः विभूतितृष्णावर्जिता मुमुक्षवः सन्तः उपासते परमिव देवम् , ते शुक्रं नृबीजं यदेतत्प्रसिद्धं शरीरोपादानकारणम् अतिवर्तन्ति अतिगच्छन्ति धीराः बुद्धिमन्तः, न पुनः योनिं प्रसर्पन्ति । ‘न पुनः क्व रतिं करोति’ ( ? ) इति श्रुतेः । अतः तं पूजयेत् इत्यभिप्रायः ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS