अथर्ववेदीया मुण्डकोपषद्
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन
ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो
यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥
अधुना सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि साधनानि विधीयन्ते निवृत्तिप्रधानानि — सत्येन अनृतत्यागेन मृषावदन-त्यागेन लभ्यः प्राप्तव्यः । किञ्च, तपसा हि इन्द्रियमनएकाग्रतया । ‘मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः’ (मो. ध. २५० । ४) इति स्मरणात् । तद्धि अनुकूलम् आत्मदर्शनाभिमुखीभावात् परमं साधनं तपो न इतरत् चान्द्रायणादि । एष आत्मा लभ्य इत्यनुषङ्गः सर्वत्र । सम्यग्ज्ञानेन यथाभूतात्मदर्शनेन ब्रह्मचर्येण मैथुन-असमाचारेण । नित्यं सर्वदा ; नित्यं सत्येन, नित्यं तपसा, नित्यं सम्यग्ज्ञानेन इति सर्वत्र नित्यशब्दः अन्तर्दीपिकान्यायेन अनुषक्तव्यः । वक्ष्यति च ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६) इति । क्व असावात्मा यः एतैः साधनैर्लभ्यः इत्युच्यते — अन्तःशरीरे अन्तः मध्ये शरीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुभ्रः शुद्धो यमात्मानं पश्यन्ति उपलभन्ते यतयः यतनशीलाः संन्यासिनः क्षीणदोषाः क्षीणक्रोधादिचित्तमलाः, स आत्मा नित्यं सत्यादिसाधनैः संन्यासिभिः लभ्यते इत्यर्थः । न कादाचित्कैः सत्यादिभिर्लभ्यते । सत्यादिसाधनस्तुत्यर्थोऽयम् अर्थवादः ॥५॥
© 2023 KKP APP. All rights reserved | Design by SMDS