अथर्ववेदीया मुण्डकोपषद्
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥६॥
सत्यमेव सत्यवानेव जयते जयति, नानृतं न अनृतवादीत्यर्थः । न हि सत्यानृतयोः केवलयोः पुरुष अनाश्रितयोः जयः पराजयो वा सम्भवति । प्रसिद्धं लोके सत्यवादिना अनृतवादी अभिभूयते न विपर्ययः ; अतः सिद्धं सत्यस्य बलवत्साधनत्वम् । किञ्च, शास्त्रतोऽपि अवगम्यते सत्यस्य साधनातिशयत्वम् । कथम् ? सत्येन यथाभूतवादव्यवस्थया पन्थाः देवयानाख्यः विततो विस्तीर्णः सातत्येन प्रवृत्तः । येन पथा हि अक्रमन्ति आक्रमन्ते ऋषयः दर्शनवन्तः कुहक-माया-शाठ्य- अहङ्कार-दम्भ-अनृतवर्जिता हि आप्तकामाः विगततृष्णाः सर्वतो यत्र यस्मिन् , तत्परमार्थतत्त्वं सत्यस्य उत्तमसाधनस्य सम्बन्धि साध्यं परमं प्रकृष्टं निधानं पुरुषार्थरूपेण निधीयत इति निधानं वर्तते । तत्र च येन पथा आक्रमन्ति, सः सत्येन विततः इति पूर्वेण सम्बन्धः ॥६॥
© 2023 KKP APP. All rights reserved | Design by SMDS