भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः
समिधः सप्त होमाः । सप्तेमे लोका येषु
चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥८॥

किञ्च, सप्त शीर्षण्याः प्राणाः तस्मादेव पुरुषात् प्रभवन्ति । तेषां सप्त अर्चिषः दीप्तयः स्वस्वविषयावद्योतनानि । तथा सप्त समिधः सप्तविषयाः ; विषयैर्हि समिध्यन्ते प्राणाः । सप्त होमा ; तद्विषयविज्ञानानि, ‘यदस्य विज्ञानं तज्जुहोति’ (तै. ना. ८०) इति श्रुत्यन्तरात् । किञ्च, सप्त इमे लोकाः इन्द्रियस्थानानि, येषु चरन्ति सञ्चरन्ति प्राणाः इति विशेषणात् । प्राणा येषु चरन्तीति प्राणानां विशेषणमिदं प्राणापानादिनिवृत्त्यर्थम् । गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः । निहिताः स्थापिता धात्रा सप्त सप्त प्रतिप्राणिभेदम् । यानि च आत्मयाजिनां विदुषां कर्माणि कर्मफलानि चाविदुषां च कर्माणि तत्साधनानि कर्मफलानि च सर्वं च एतत्परस्मादेव पुरुषात्सर्वज्ञात् प्रसूतमिति प्रकरणार्थः ॥८॥

© 2023 KKP APP. All rights reserved | Design by SMDS