अथर्ववेदीया मुण्डकोपषद्
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥२॥
तत्रैवं सति समाने वृक्षे यथोक्ते शरीरे पुरुषः भोक्ता जीवः अविद्याकामकर्मफलरागादिगुरुभाराक्रान्तः अलाबुरिव सामुद्रे जले निमग्नः निश्चयेन देहात्मभावमापन्नः अयमेवाहम्, अमुष्य पुत्रः, अस्य नप्ता, कृशः, स्थूलः, गुणवान्, निर्गुणः, सुखी, दुःखी इति एवंप्रत्ययः, नास्त्यन्यः अस्मादिति, जायते म्रियते संयुज्यते वियुज्यते च सम्बन्धिबान्धवैः, अतः अनीशया, न कस्यचित्समर्थोऽहं, पुत्रो मम विनष्टः, मृता मे भार्या, किं मे जीवितेन इति एवं दीनभावः अनीशा, तया शोचति सन्तप्यते मुह्यमानः अनेकैः अनर्थप्रकारैः अविवेकितया अन्तः चिन्तामापद्यमानः सः एवं प्रेततिर्यङ्मनुष्यादियोनिषु आजवं जीवीभावमापन्नः, कदाचित् अनेकजन्मसु शुद्धधर्मसञ्चितनिमित्ततः केनचित्परमकारुणिकेन दर्शितयोगमार्गः अहिंसा-सत्य-ब्रह्मचर्य-सर्वत्याग-शमदमादिसम्पन्नः समाहितात्मा सन् जुष्टं सेवितम् अनेकैर्योगमार्गैः कर्मिभिश्च यदा यस्मिन्काले पश्यति ध्यायमानः अन्यं वृक्षोपाधिलक्षणाद्विलक्षणम् , ईशम् ,असंसारिणम्, अशनायापिपासा-शोकमोह-जरामृत्यु-अतीतमीशं सर्वस्य जगतः अयमहमस्मि आत्मा सर्वस्य, समः, सर्वभूतस्थः, न इतरः अविद्याजनित-उपाधिपरिच्छिन्नो मायात्मा इति महिमानं विभूतिं च जगद्रूपम् अस्यैव मम परमेश्वरस्य इति यदा एवं द्रष्टा, तदा वीतशोकः भवति सर्वस्माच्छोकसागरात् विप्रमुच्यते, कृतकृत्यो भवतीत्यर्थः ॥२॥
© 2023 KKP APP. All rights reserved | Design by SMDS