भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं
विकिरतीह सोम्य ॥१०॥

एवं पुरुषात् सर्वमिदं सम्प्रसूतम् । अतो वाचारम्भणं विकारो नामधेयम् अनृतं पुरुष इत्येव सत्यम् ; अतः पुरुष एव इदं विश्वं सर्वम् । न विश्वं नाम पुरुषादन्यत् किञ्चिदस्ति । अतो यदुक्तं तदेव इदमभिहितम् ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति ; एतस्मिन् हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते, पुरुष एवेदं विश्वं न अन्यदस्तीति विज्ञातं भवतीति । किं पुनः इदं विश्वम् इत्युच्यते — कर्म अग्निहोत्रादिलक्षणम् ; तपः ज्ञानं तत्कृतं फलम् अन्यदेव तावद् हि इदं सर्वम् ; तच्च एतद्ब्रह्मणः कार्यम् ; तस्मात् सर्वं ब्रह्म परामृतं परम् अमृतम् अहमेव इति यो वेद निहितं स्थितं गुहायां हृदि सर्वप्राणिनाम् , सः एवं विज्ञानात् अविद्याग्रन्थिं ग्रन्थिमिव दृढीभूताम् अविद्यावासनां विकिरति विक्षिपति विनाशयति इह जीवन्नेव, न मृतः सन् हे सोम्य प्रियदर्शन ॥१०॥

इति द्वितीयमुण्डके प्रथमः खण्डः

© 2023 KKP APP. All rights reserved | Design by SMDS