भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते
नातिवादी । आत्मक्रीड आत्मरतिः क्रियावानेष
ब्रह्मविदां वरिष्ठः ॥४॥

किञ्च, योऽयं प्राणस्य प्राणः पर ईश्वरः हि एषः प्रकृतः सर्वभूतैः सर्वैर्भूतैः ब्रह्मादिस्तम्बपर्यन्तैः ; इत्थम्भूतलक्षणे तृतीया । सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः । विभाति विविधं दीप्यते । एवं सर्वभूतस्थं यः साक्षादात्मभावेन अयमहमस्मीति विजानन् विद्वान् वाक्यार्थज्ञानमात्रेण न भवते न भवति इत्येतत् । किम् ? अतिवादी अतीत्य सर्वान् अन्यान् वदितुं शीलम् अस्य इति अतिवादी । यस्तु एवं साक्षादात्मानं प्राणस्य प्राणं विद्वान् , सोऽतिवादी न भवतीत्यर्थः । सर्वं यदा आत्मैव न अन्यदस्तीति दृष्टम् , तदा किं हि असौ अतीत्य वदेत् । यस्य तु अपरमन्यद्दृष्टमस्ति, स तदतीत्य वदति । अयं तु विद्वान् न आत्मनः अन्यत्पश्यति ; न अन्यच्छृणोति ; न अन्यद्विजानाति । अतो नातिवदति । किञ्च, आत्मक्रीडः आत्मन्येव क्रीडा क्रीडनं यस्य न अन्यत्र पुत्रदारादिषु, स आत्मक्रीडः । तथा आत्मरतिः आत्मन्येव रती रमणं प्रीतिः यस्य, स आत्मरतिः । क्रीडा- बाह्यसाधनसापेक्षा ; रतिस्तु साधननिरपेक्षा बाह्यविषयप्रीतिमात्रमिति विशेषः । तथा क्रियावान् ज्ञानध्यानवैराग्यादिक्रिया यस्य सोऽयं क्रियावान् । समासपाठे आत्मरतिरेव क्रिया अस्य विद्यते इति बहुव्रीहिमतुबर्थयोः अन्यतरः अतिरिच्यते । केचित्तु अग्निहोत्रादिकर्मब्रह्मविद्ययोः समुच्चयार्थमिच्छन्ति । तच्च एष ब्रह्मविदां वरिष्ठः इत्यनेन मुख्यार्थवचनेन विरुध्यते । न हि बाह्यक्रियावान् आत्मक्रीडः आत्मरतिश्च भवितुं शक्तः । क्वचिद्बाह्यक्रियाविनिवृत्तो हि आत्मक्रीडो भवति बाह्यक्रिया-अत्मक्रीडयोः विरोधात् । न हि तमःप्रकाशयोः युगपत् एकत्र स्थितिः सम्भवति । तस्मात् असत्प्रलपितमेवैतत् अनेन ज्ञानकर्मसमुच्चयप्रतिपादनम् । ‘अन्या वाचो विमुञ्चथ’ (मु. उ. २ । २ । ५) ‘संन्यासयोगात्’ (मु. उ. ३ । २ । ६) इत्यादिश्रुतिभ्यश्च । तस्मादयमेव इह क्रियावान्, यः ज्ञानध्यानादिक्रियावान् असम्भिन्नार्यमर्यादः संन्यासी । य एवंलक्षणो नातिवादी आत्मक्रीड आत्मरतिः क्रियावान्ब्रह्मनिष्ठः, स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS