भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥४॥

यदुक्तं धनुरादि, तदुच्यते — प्रणवः ओङ्कारः धनुः । यथा इष्वासनं लक्ष्ये शरस्य प्रवेशकारणम् , तथा आत्मशरस्य अक्षरे लक्ष्ये प्रवेशकारणम् ओम्ङ्कारः । प्रणवेन हि अभ्यस्यमानेन संस्क्रियमाणः तदालम्बनः अप्रतिबन्धेन अक्षरेऽवतिष्ठते । यथा धनुषा अस्तः इषुः लक्ष्ये । अतः प्रणवो धनुरिव धनुः । शरो हि आत्मा उपाधिलक्षणः पर एव जले सूर्यादिवत् इह प्रविष्टो देहे सर्वबौद्धप्रत्ययसाक्षितया ; स शर इव स्वात्मन्येव अर्पितः अक्षरे ब्रह्मणि ; अतः ब्रह्म तत् लक्ष्यमुच्यते लक्ष्य इव मनः समाधित्सुभिः आत्मभावेन लक्ष्यमाणत्वात् । तत्रैवं सति अप्रमत्तेन बाह्यविषयोपलब्धितृष्णाप्रमादवर्जितेन सर्वतो विरक्तेन जितेन्द्रियेण एकाग्रचित्तेन वेद्धव्यं ब्रह्म लक्ष्यम् । ततः तद्वेधनादूर्ध्वं शरवत् तन्मयः भवेत् ; यथा शरस्य लक्ष्यैकात्मत्वं फलं भवति, तथा देहाद्यात्मताप्रत्ययतिरस्करणेन अक्षरैकात्मत्वं फलमापादयेत् इत्यर्थः ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS