भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

एतच्च ज्ञानरहितं कर्म एतावत्फलम् अविद्याकामकर्मकार्यम् अतः असारं दुःखमूलमिति निन्द्यते —

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७ ॥

प्लवाः विनाशिन इत्यर्थः । हि यस्मात् एते अदृढाः अस्थिराः यज्ञरूपाः यज्ञस्य रूपाणि यज्ञरूपाः यज्ञनिर्वर्तकाः अष्टादश अष्टादशसङ्ख्याकाः षोडशर्त्विजः पत्नी यजमानश्चेति अष्टादश । एतदाश्रयं कर्म उक्तं कथितं शास्त्रेण येषु अष्टादशसु अवरं केवलं ज्ञानवर्जितं कर्म । अतः तेषाम् अवरकर्माश्रयाणाम् अष्टादशानाम् अदृढतया प्लवत्वात्प्लवते सह फलेन तत्साध्यं कर्म ; कुण्डविनाशादिव क्षीरदध्यादीनां तत्स्थानां नाशः ; यत एवम् एतत् कर्म श्रेयः श्रेयःसाधनमिति ये अभिनन्दन्ति अभिहृष्यन्ति अविवेकिनः मूढाः, अतः ते जरां च मृत्युं च जरामृत्युं कञ्चित्कालं स्वर्गे स्थित्वा पुनरेव अपि यन्ति भूयोऽपि गच्छन्ति ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS