भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

नायमात्मा बलहीनेन लभ्यो न च
प्रमादात्तपसो वाप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु
विद्वान् तस्यैष आत्मा विशते ब्रह्म धाम ॥ ४ ॥

आत्मप्रार्थनासहायभूतानि एतानि च साधनानि बल-अप्रमाद-तपांसि लिङ्गयुक्तानि संन्याससहितानि । यस्मात् न अयमात्मा बलहीनेन बलप्रहीणेन आत्मनिष्ठाजनितवीर्यहीनेन लभ्यः ; नापि लौकिकपुत्रपश्वादि-विषयासङ्गनिमित्तात् प्रमादात् ; तथा तपसो वापि अलिङ्गात् लिङ्गरहितात् । तपोऽत्र ज्ञानम् ; लिङ्गं संन्यासः ; संन्यासरहितात् ज्ञानात् न लभ्यते इत्यर्थः । एतैः उपायैः बल-अप्रमाद-संन्यासज्ञानैः यतते तत्परः सन् प्रयतते यस्तु विद्वान्विवेकी आत्मवित् , तस्य विदुषः एष आत्मा विशते सम्प्रविशति ब्रह्म धाम ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS