अथर्ववेदीया मुण्डकोपषद्
नायमात्मा प्रवचनेन लभ्यो न मेधया
न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष
आत्मा विवृणुते तनूं स्वाम् ॥३॥
यद्येवं सर्वलाभात् परमः आत्मलाभः, तल्लाभाय प्रवचनादय उपाया बाहुल्येन कर्तव्या इति प्राप्ते, इदमुच्यते — यः अयमात्मा व्याख्यातः, यस्य लाभः परः पुरुषार्थः, नासौ वेदशास्त्राध्ययनबाहुल्येन प्रवचनेन लभ्यः । तथा न मेधया ग्रन्थार्थधारणशक्त्या, न बहुना श्रुतेन, नापि भूयसा श्रवणेन इत्यर्थः । केन तर्हि लभ्यः इति, उच्यते — यमेव परमात्मानमेव एषः विद्वान् वृणुते प्राप्तुमिच्छति, तेन वरणेन एष पर आत्मा लभ्यः, नान्येन साधनान्तरेण, नित्यलब्धस्वभावत्वात् । कीदृशः असौ विदुषः आत्मलाभः इति, उच्यते — तस्य एष आत्मा अविद्यासञ्छन्नां स्वां परां तनूं स्वात्मतत्त्वं स्वरूपं विवृणुते प्रकाशयति, प्रकाश इव घटादिः विद्यायां सत्याम् आविर्भवतीत्यर्थः । तस्मात् अन्यत्यागेन आत्मप्रार्थना एव आत्मलाभसाधनमित्यर्थः ॥३॥
© 2023 KKP APP. All rights reserved | Design by SMDS