अथर्ववेदीया मुण्डकोपषद्
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा
कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं
पश्यते निष्कलं ध्यायमानः ॥ ८ ॥
पुनरपि असाधारणं तदुपलब्धिसाधनम् उच्यते — यस्मात् न चक्षुषा गृह्यते केनचिदपि, अरूपत्वात् नापि गृह्यते वाचा अनभिधेयत्वात्, न च अन्यैर्देवैः इतरेन्द्रियैः । तपसः सर्वप्राप्तिसाधनत्वेऽपि न तपसा गृह्यते । तथा वैदिकेनाग्निहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते । किं पुनस्तस्य ग्रहणे साधनमिति आह — ज्ञानप्रसादेन आत्मावबोधनसमर्थमपि स्वभावेन सर्वप्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितम् अप्रसन्नम् अशुद्धं सत् न अवबोधयति नित्यसंनिहितमपि आत्मतत्त्वं मलावनद्धम् इव आदर्शम् , विलुलितमिव सलिलम् । तद्यदा इन्द्रियविषयसंसर्गजनित-रागादिमलकालुष्य-अपनयनात् आदर्शसलिलादिवत् प्रसादितं स्वच्छं शान्तम् अवतिष्ठते, तदा ज्ञानस्य प्रसादः स्यात् । तेन ज्ञानप्रसादेन विशुद्धसत्त्वः विशुद्धान्तःकरणः योग्यो ब्रह्म द्रष्टुं यस्मात् , ततः तस्मात्तु तमात्मानं पश्यते पश्यति उपलभते निष्कलं सर्वावयवभेदवर्जितं ध्यायमानः सत्यादिसाधनवान् उपसंहृतकरणः एकाग्रेण मनसा ध्यायमानः चिन्तयन् ॥८॥
© 2023 KKP APP. All rights reserved | Design by SMDS