अथर्ववेदीया मुण्डकोपष
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय ।
तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभाति ॥८॥
स हि आत्मा तत्रस्थो मनोवृत्तिभिरेव विभाव्यत इति मनोमयः, मनउपाधित्वात् । प्राणशरीरनेता प्राणश्च तच्छरीरं च तत्प्राणशरीरं तस्यायं नेता । अस्मात्स्थूलाच्छरीरात् शरीरान्तरं सूक्ष्मं प्रति प्रतिष्ठितः अवस्थितः अन्ने भुज्यमान-अन्नविपरिणामे प्रतिदिनमुपचीयमाने अपचीयमाने च पिण्डरूपेऽन्ने हृदयं बुद्धिं पुण्डरीकच्छिद्रे संनिधाय समवस्थाप्य ; हृदयावस्थानमेव हि आत्मनः स्थितिः, न हि आत्मनः स्थितिरन्ने ; तत् आत्मतत्त्वं विज्ञानेन विशिष्टेन शास्त्राचार्योपदेशजनितेन ज्ञानेन शमदमध्यानसर्वत्यागवैराग्योद्भूतेन परिपश्यन्ति सर्वतः पूर्णं पश्यन्ति उपलभन्ते धीराः विवेकिनः । आनन्दरूपं सर्वानर्थदुःखायासप्रहीणं सुखरूपम् अमृतं यद्विभाति विशेषेण स्वात्मन्येव भाति सर्वदा ॥८॥
© 2023 KKP APP. All rights reserved | Design by SMDS