अथर्ववेदीया मुण्डकोपषद्
कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥२॥
मुमुक्षोः कामत्याग एव प्रधानं साधनमित्येतद्दर्शयति — कामान् यः दृष्टादृष्ट-इष्टविषयान् कामयते मन्यमानः तद्गुणान् चिन्तयानः प्रार्थयते, सः तैः कामभिः कामैः धर्माधर्मप्रवृत्तिहेतुभिः विषयेच्छारूपैः सह जायते ; तत्र तत्र, यत्र यत्र विषयप्राप्तिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र तेषु तेषु विषयेषु तैरेव कामैः वेष्टितो जायते । यस्तु परमार्थतत्त्वविज्ञानात् पर्याप्तकामः आत्मकामत्वेन परि समन्ततः आप्ताः कामा यस्य, तस्य पर्याप्तकामस्य कृतात्मनः अविद्यालक्षणात् अपररूपादपनीय स्वेन परेण रूपेण कृतः आत्मा विद्यया यस्य, तस्य कृतात्मनस्तु इहैव तिष्ठत्येव शरीरे सर्वे धर्माधर्मप्रवृत्तिहेतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति, नश्यन्तीत्यर्थः । कामाः तज्जन्महेतुविनाशात् न जायन्ते इत्यभिप्रायः ॥२॥
© 2023 KKP APP. All rights reserved | Design by SMDS