भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥४॥

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना दहनस्य जिह्वाः । काल्याद्या विश्वरुच्यन्ता लेलायमानाः अग्नेः हविः आहुतिग्रसनार्था एताः किल सप्त जिह्वाः ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS