अथर्ववेदीया मुण्डकोपषद्
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥१०॥
इष्टापूर्तम् इष्टं यागादि श्रौतं कर्म, पूर्तं स्मार्तं वापीकूपतडागादिकर्म मन्यमानाः एतदेव अतिशयेन पुरुषार्थसाधनं वरिष्ठं प्रधानमिति चिन्तयन्तः, अन्यत् आत्मज्ञानाख्यं श्रेयःसाधनं न वेदयन्ते न जानन्ति प्रमूढाः पुत्रपशुबान्धवादिषु प्रमत्ततया मूढाः ; ते च नाकस्य स्वर्गस्य पृष्ठे उपरिस्थाने सुकृते भोगायतने अनुभूत्वा अनुभूय कर्मफलं पुनः इमं लोकं मानुषम् अस्मात् हीनतरं वा तिर्यङ्नरकादिलक्षणं यथाकर्मशेषं विशन्ति ॥१०॥
© 2023 KKP APP. All rights reserved | Design by SMDS