भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपष

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥१०॥

उक्तस्यैवार्थस्य सङ्क्षेपाभिधायका उत्तरे मन्त्राः त्रयोऽपि — हिरण्मये ज्योतिर्मये बुद्धिविज्ञानप्रकाशे परे कोशे कोश इव असेः । आत्मस्वरूपोपलब्धिस्थानत्वात् परं तत्सर्वाभ्यन्तरत्वात् , तस्मिन् विरजम् अविद्याद्यशेषदोषरजोमलवर्जितं ब्रह्म सर्वमहत्त्वात् सर्वात्मत्वाच्च निष्कलं निर्गताः कला यस्मात् तन्निष्कलं निरवयवमित्यर्थः । यस्माद्विरजं निष्कलं च अतः तच्छुभ्रं शुद्धं ज्योतिषां सर्वप्रकाशात्मनाम् अग्न्यादीनामपि तज्ज्योतिः अवभासकम् । अग्न्यादीनामपि ज्योतिष्ट्वम् अन्तर्गतब्रह्मात्मचैतन्यज्योतिर्निमित्तम् इत्यर्थः । तद्धि परं ज्योतिः यत् अन्य-अनवभास्यम् आत्मज्योतिः, तत् यत् आत्मविदः आत्मानं स्वं शब्दादिविषयबुद्धिप्रत्ययसाक्षिणं ये विवेकिनो विदुः विजानन्ति, ते आत्मविदः तद्विदुः, आत्मप्रत्ययानुसारिणः । यस्मात्परं ज्योतिः तस्मात् ते एव तद्विदुः, न इतरे बाह्यार्थप्रत्ययानुसारिणः ॥१०॥

© 2023 KKP APP. All rights reserved | Design by SMDS