अथर्ववेदीया मुण्डकोपषद्
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च
सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च
आत्मा परेऽव्यये सर्व एकीभवन्ति ॥७॥
अपि च, अविद्यादिसंसारबन्धापनयनमेव मोक्षमिच्छन्ति ब्रह्मविदः, न तु कार्यभूतम् । किञ्च, मोक्षकाले या देहारम्भिकाः कलाः प्राणाद्याः, ताः स्वाः प्रतिष्ठाः गताः स्वं स्वं कारणं गता भवन्तीत्यर्थः । प्रतिष्ठा इति द्वितीयाबहुवचनम् । पञ्चदश पञ्चदशसङ्ख्याका या अन्त्यप्रश्नपरिपठिताः प्रसिद्धाः, देवाश्च देहाश्रयाः चक्षुरादिकरणस्थाः सर्वे प्रतिदेवतासु आदित्यादिषु गता भवन्तीत्यर्थः । यानि च मुमुक्षुणा कृतानि कर्माणि अप्रवृत्तफलानि, प्रवृत्तफलानाम् उपभोगेनैव क्षीणत्वात् । विज्ञानमयश्च आत्मा अविद्याकृतबुद्ध्याद्युपाधिम् आत्मत्वेन गत्वा जलादिषु सूर्यादिप्रतिबिम्बवदिह प्रविष्टः देहभेदेषु कर्मणां तत्फलार्थत्वात् सह तेनैव विज्ञानमयेन आत्मना ; अतो विज्ञानमयः विज्ञानप्रायः । त एते कर्माणि विज्ञानमयश्च आत्मा उपाध्यपनये सति परे अव्यये अनन्ते अक्षये ब्रह्मणि आकाशकल्पे अजे, अजरे, अमृते, अभये, अपूर्वे, अनपरे, अनन्तरे, अबाह्ये, अद्वये शिवे, शान्ते, सर्वे एकीभवन्ति अविशेषतां गच्छन्ति एकत्वमापद्यन्ते जलाद्याधारापनय इव सूर्यादिप्रतिबिम्बाः सूर्ये, घटाद्यपनये इव् आकाशे घटाद्याकाशाः ॥७॥
© 2023 KKP APP. All rights reserved | Design by SMDS