अथर्ववेदीया मुण्डकोपषद्
कथं ते न सन्ति प्राणादय इति, उच्यते —
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥३॥
यस्मात् एतस्मादेव पुरुषात् नामरूपबीजोपाधिलक्षितात् जायते उत्पद्यते अविद्याविषयो विकारभूतो नामधेयः अनृतात्मकः प्राणः, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) ‘अनृतम्’ इति श्रुत्यन्तरात् । न हि तेन अविद्याविषयेण अनृतेन प्राणेन सप्राणत्वं परस्य स्यात् अपुत्रस्य स्वप्नदृष्टेन इव पुत्रेण सपुत्रत्वम् । एवं मनः सर्वाणि च इन्द्रियाणि विषयाश्च एतस्मादेव जायन्ते । तस्मात्सिद्धम् अस्य निरुपचरितम् अप्राणादिमत्त्वम् इत्यर्थः । यथा च प्रागुत्पत्तेः परमार्थतः असन्तः तथा प्रलीनाश्च इति द्रष्टव्याः ॥
यथा करणानि मनश्च इन्द्रियाणि च, तथा शरीरविषयकारणानि भूतानि खम् आकाशं, वायुः बाह्यः आवहादिभेदः, ज्योतिः अग्निः, आपः उदकं, पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी ; एतानि च शब्दस्पर्शरूपरसगन्ध-उत्तरोत्तरगुणानि पूर्वपूर्वगुणसहितानि एतस्मादेव जायन्ते ॥३॥
© 2023 KKP APP. All rights reserved | Design by SMDS