भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥२॥

नामरूपबीजभूतात् अव्याकृताख्यात् स्वविकारापेक्षया परादक्षरात् परं यत्सर्वोपाधिभेदवर्जितम् अक्षरस्यैव स्वरूपम् आकाशस्येव सर्वमूर्तिवर्जितं नेति नेति इत्यादिविशेषणं विवक्षन् आह — दिव्यः द्योतनवान् , स्वयञ्ज्योतिष्ट्वात् । दिवि वा स्वात्मनि भवः अलौकिको वा । हि यस्मात् अमूर्तः सर्वमूर्तिवर्जितः, पुरुषः पूर्णः पुरिशयो वा, सबाह्याभ्यन्तरः सह बाह्याभ्यन्तरेण वर्तत इति । अजः न जायते कुतश्चित्, स्वतः अजस्य जन्मनिमित्तस्य च अभावात् ; यथा जलबुद्बुदादेः वाय्वादिः, यथा नभःसुषिरभेदानां घटादिः । सर्वभावविकाराणां जनिमूलत्वात् तत्प्रतिषेधेन सर्वे प्रतिषिद्धा भवन्ति । सबाह्याभ्यन्तरो ह्यजः अतः अजरः अमृतः अक्षरः ध्रुवः इत्यर्थः ॥

यद्यपि देहाद्युपाधिभेददृष्टीनाम् अविद्यावशात् देहभेदेषु सप्राणः समनाः सेन्द्रियः सविषय इव प्रत्यवभासते तलमलादिमदिव आकाशम् , तथापि तु स्वतः परमार्थस्वरूपदृष्टीनाम् अप्राणः अविद्यमानः क्रियाशक्तिभेदवान् चलनात्मको वायुः यस्मिन्नसौ अप्राणः । तथा अमनाः अनेकज्ञानशक्तिभेदवत् सङ्कल्पाद्यात्मकं मनोऽपि अविद्यमानं यस्मिन् सोऽयम् अमनाः । अप्राणो ह्यमनाश्चेति प्राणादिवायुभेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथा बुद्धिमनसी बुद्धीन्द्रियाणि तद्विषयाश्च प्रतिषिद्धा वेदितव्याः ; यथा श्रुत्यन्तरे — ’ध्यायतीव लेलायतीव’ इति । यस्माच्चैवं प्रतिषिद्धोपाधिद्वयः तस्मात् शुभ्रः शुद्धः ॥

अतः अक्षरात् नामरूपबीजोपाधिलक्षितस्वरूपात् , सर्वकार्यकरणबीजत्वेन उपलक्ष्यमाणत्वात् परं तत्त्वं तदुपाधिलक्षणम् अव्याकृताख्यम् अक्षरं सर्वविकारेभ्यः तस्मात् परतः अक्षरात्परः निरुपाधिकः पुरुषः इत्यर्थः । यस्मिन् तदाकाशाख्यम् अक्षरं संव्यवहारविषयम् ओतं च प्रोतं च ॥

कथं पुनः अप्राणादिमत्त्वं तस्येति उच्यते । यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनात्मना सन्ति, तदा पुरुषस्य प्राणदिना विद्यमानेन प्राणादिमत्त्वं स्यात् ; न तु ते प्राणादयः प्रागुत्पत्तेः सन्ति । अतः प्राणादिमान् परः पुरुषः, यथा अनुत्पन्ने पुत्रे अपुत्रो देवदत्तः ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS