अथर्ववेदीया मुण्डकोपषद्
अथ तृतीये मुण्डके प्रथमः खण्डः
परा विद्योक्ता यया तदक्षरं पुरुषाख्यं सत्यमधिगम्यते । यदधिगमे हृदयग्रन्थ्यादिसंसारकारणस्यात्यन्तिको विनाशः स्यात् , तद्दर्शनोपायश्च योगो धनुराद्युपादानकल्पनयोक्तः । अथेदानीं तत्सहकारीणि सत्यादिसाधनानि वक्तव्यानीति तदर्थ उत्तरग्रन्थारम्भः । प्राधान्येन तत्त्वनिर्धारणं च प्रकारान्तरेण क्रियते । अत्यन्तदुरवगाहत्वात्कृतमपि तत्र सूत्रभूतो मन्त्रः परमार्थवस्त्ववधारणार्थमुपन्यस्यते —
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति ॥१॥
द्वा द्वौ, सुपर्णा सुपर्णौ शोभनपतनौ सुपर्णौ, पक्षिसामान्याद्वा सुपर्णौ, सयुजा सयुजौ सहैव सर्वदा युक्तौ, सखाया सखायौ समानाख्यानौ समानाभिव्यक्तिकारणौ, एवंभूतौ सन्तौ समानम् अविशेषमुपलब्ध्यधिष्ठानतया, एकं वृक्षं वृक्षमिव उच्छेदसामान्यात् शरीरं वृक्षं परिषस्वजाते परिष्वक्तवन्तौ । सुपर्णौ इव एकं वृक्षं फलोपभोगार्थम् । अयं हि वृक्षः ऊर्ध्वमूलः अवाक्शाखः अश्वत्थः अव्यक्तमूलप्रभवः क्षेत्रसंज्ञकः सर्वप्राणिकर्मफलाश्रयः, तं परिष्वक्तवन्तौ सुपर्णाविव अविद्याकामकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौ । तयोः परिष्वक्तयोः अन्यः एकः क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पलं कर्मनिष्पन्नं सुखदुःखलक्षणं फलं स्वादु अनेकविचित्रवेदनास्वादरूपं स्वादु अत्ति भक्षयति उपभुङ्क्ते अविवेकतः । अनश्नन् अन्यः इतरः ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सत्त्वोपाधिः ईश्वरो न अश्नाति । प्रेरयिता हि असौ उभयोः भोज्य-भोक्त्रोः नित्यसाक्षित्वसत्तामात्रेण । स तु अनश्नन् अन्यः अभिचाकशीति पश्यत्येव केवलम् । दर्शनमात्रं हि तस्य प्रेरयितृत्वं राजवत् ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS