भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत ।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥३॥

कथं वेद्धव्यमिति, उच्यते — धनुः इष्वासनं गृहीत्वा आदाय औपनिषदम् उपनिषत्सु भवं प्रसिद्धं महास्त्रं महच्च तदस्त्रं च महास्त्रं धनुः, तस्मिन् शरम् ; किंविशिष्टमित्याह — उपासानिशितं सन्तताभिध्यानेन तनूकृतम् , संस्कृतमित्येतत् ; सन्दधीत सन्धानं कुर्यात् । सन्धाय च आयम्य आकृष्य सेन्द्रियम् अन्तःकरणं स्वविषयाद्विनिवर्त्य लक्ष्ये एव् आवर्जितं कृत्वा इत्यर्थः । न हि हस्तेन इव धनुषः आयमनमिह सम्भवति । तद्भावगतेन तस्मिन्ब्रह्मण्यक्षरे लक्ष्ये भावना भावः तद्गतेन चेतसा, लक्ष्यं तदेव यथोक्तलक्षणम् अक्षरं सोम्य, विद्धि ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS