भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया मुण्डकोपषद्

ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम् अथर्वाय ज्येष्ठपुत्राय प्राह ॥१॥

ब्रह्म परिबृढो महान् धर्मज्ञानवैराग्यैश्वर्यैः सर्वान् अन्यान् अतिशेते इति ; देवानां द्योतनवताम् इन्द्रादीनां प्रथमः गुणैः प्रधानः सन्, प्रथमः अग्रे वा सम्बभूव अभिव्यक्तः सम्यक् स्वातन्त्र्येण इत्यभिप्रायः । न तथा यथा धर्माधर्मवशात् संसारिणः अन्ये जायन्ते, ‘योऽसावतीन्द्रियोऽग्राह्यः’ (मनु. १ । ७) इत्यादिस्मृतेः । विश्वस्य सर्वस्य जगतः कर्ता उत्पादयिता, भुवनस्य उत्पन्नस्य गोप्ता पालयिता इति विशेषणं ब्रह्मणो विद्यास्तुतये । सः एवं प्रख्यातमहत्त्वो ब्रह्मा ब्रह्मविद्यां ब्रह्मणः परमात्मनो विद्यां ब्रह्मविद्याम् , ‘येनाक्षरं पुरुषं वेद सत्यम्’ (मु. उ. १ । २ । १३) इति विशेषणात् । परमात्मविषया हि सा । ब्रह्मणा वा अग्रजेन उक्ता इति ब्रह्मविद्या । तां ब्रह्मविद्याम्, सर्वविद्याप्रतिष्ठां सर्वविद्याभिव्यक्तिहेतुत्वात् सर्वविद्याश्रयाम् इत्यर्थः ; सर्वविद्यावेद्यं वा वस्तु अनया एव ज्ञायते इति, ‘येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इति श्रुतेः । सर्वविद्याप्रतिष्ठामिति च स्तौति विद्याम् । अथर्वाय ज्येष्ठपुत्राय ज्येष्ठश्च असौ पुत्रश्च, अनेकेषु ब्रह्मणः सृष्टिप्रकारेष् अन्यतमस्य सृष्टिप्रकारस्य प्रमुखे पूर्वम् अथर्वा सृष्टः इति ज्येष्ठः ; तस्मै ज्येष्ठपुत्राय प्राह प्रोक्तवान् ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS