अथर्ववेदीया मुण्डकोपष
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥९॥
अस्य परमात्मज्ञानस्य फलमिदम् अभिधीयते — हृदयग्रन्थिः अविद्यावासनामयो बुद्ध्याश्रयः कामः, ‘कामा येऽस्य हृदि श्रिताः’ (बृ. उ. ४ । ४ । ७), (का. उ. २ । ३ । १४) इति श्रुत्यन्तरात् । हृदयाश्रयोऽसौ, न आत्माश्रयः । भिद्यते भेदं विनाशमुपयाति । छिद्यन्ते सर्वे ज्ञेयविषयाः संशयाः लौकिकानाम् आ मरणात् गङ्गास्रोतोवत्प्रवृत्ता विच्छेदमायान्ति । अस्य विच्छिन्नसंशयस्य निवृत्ताविद्यस्य यानि विज्ञानोत्पत्तेः प्राक् कृतानि जन्मान्तरे च अप्रवृत्तफलानि ज्ञानोत्पत्तिसहभावीनि च क्षीयन्ते कर्माणि, न तु एतज्जन्मारम्भकाणि, प्रवृत्तफलत्वात् । तस्मिन् सर्वज्ञे असंसारिणि परावरे परं च कारणात्मना अवरं च कार्यात्मना तस्मिन्परावरे साक्षादहमस्मीति दृष्टे, संसारकारणोच्छेदान्मुच्यत इत्यर्थः ॥९॥
© 2023 KKP APP. All rights reserved | Design by SMDS