अथर्ववेदीया मुण्डकोपष
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥१२॥
यत्तज्ज्योतिषां ज्योतिः ब्रह्म, तदेव सत्यम् ; सर्वं तद्विकारः वाचारम्भणं विकारो नामधेयमात्रम् अनृतम् इतरत् इति एतमर्थं विस्तरेण हेतुतः प्रतिपादितं निगमनस्थानीयेन मन्त्रेण पुनरुपसंहरति —
ब्रह्मैव उक्तलक्षणम् , इदं यत् पुरस्तात् अग्रे अब्रह्म इव अविद्यादृष्टीनां प्रत्यवभासमानं तथा पश्चाद्ब्रह्म तथा दक्षिणतश्च तथा उत्तरेण तथैवअ धस्तात् ऊर्ध्वं च सर्वतः अन्यदिव कार्याकारेण प्रसृतं प्रगतं नामरूपवत् अवभासमानम् । किं बहुना, ब्रह्मैव इदं विश्वं समस्तमिदं जगत् वरिष्ठं वरतमम् । अब्रह्मप्रत्ययः सर्वोऽविद्यामात्रो रज्ज्वामिव सर्पप्रत्ययः । ब्रह्मैवैकं परमार्थसत्यमिति वेदानुशासनम् ॥
इति द्वितीये मुण्डके द्वितीयः खण्डः
इति अथर्ववेदीय मुण्डकोपनिषदि द्वितीयं मुण्डम्
© 2023 KKP APP. All rights reserved | Design by SMDS